Sukta 1.63
त्वं ह त्यदिन्द्र सप्त युध्यन्पुरो वज्रिन्पुरुकुत्साय दर्दः । बर्हिर्न यत्सुदासे वृथा वर्गंहो राजन्वरिवः पूरवे कः ॥
त्वं ह॒ त्यदि॑न्द्र स॒प्त युध्य॒न्पुरो॑ वज्रिन्पुरु॒कुत्सा॑य दर्दः । ब॒र्हिर्न यत्सु॒दासे॒ वृथा॒ वर्गं॒हो रा॑ज॒न्वरि॑वः पू॒रवे॑ कः ॥
tváṃ ha tyád indra saptá yúdhyann púro vajrin puru-kútsāya dárdaḥ | barhír ná yát su-dā́se vṛ́thā várgaṃho rā́jan várivaḥ pūráve káḥ ||
You indeed, O Indra, fighting, O bolt-bearer, broke the seven strongholds for Purukutsa. And when, like a spreading sacred seat, you opened a free path for Sudās against the wrong oppression—O king, who else could grant such wide room for Pūru?
त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । स॒प्त । युध्य॑न् । पुरः॑ । व॒ज्रि॒न् । पु॒रु॒ऽकुत्सा॑य । द॒र्द॒रिति॑ दर्दः । ब॒र्हिः । न । यत् । सु॒ऽदासे॑ । वृथा॑ । वर्क् । अं॒होः । रा॒ज॒न् । वरि॑वः । पू॒रवे॑ । कः ॥त्वम् । ह । त्यत् । इन्द्र । सप्त । युध्यन् । पुरः । वज्रिन् । पुरुकुत्साय । दर्दरिति दर्दः । बर्हिः । न । यत् । सुदासे । वृथा । वर्क् । अंहोः । राजन् । वरिवः । पूरवे । कः ॥tvam | ha | tyat | indra | sapta | yudhyan | puraḥ | vajrin | puru-kutsāya | dardaḥ | barhiḥ | na | yat | su-dāse | vṛthā | varka | aṃhoḥ | rājan | varivaḥ | pūrave | kaḥ