Sukta 1.63
त्वां ह त्यदिन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते । तव स्वधाव इयमा समर्य ऊतिर्वाजेष्वतसाय्या भूत् ॥
त्वां ह॒ त्यदि॒न्द्रार्ण॑सातौ॒ स्व॑र्मीळ्हे॒ नर॑ आ॒जा ह॑वन्ते । तव॑ स्वधाव इ॒यमा स॑म॒र्य ऊ॒तिर्वाजे॑ष्वत॒साय्या॑ भूत् ॥
tvā́ṃ ha tyád indrā́rṇa-sātau svàr-mīḷhe nára ā́jā havante | táva svadhāva iyám ā́ sa-maryé ūtír vā́jeṣv atasā́yyā bhūt ||
You indeed, O Indra, in the winning of the flood of energies, in the gaining of the luminous world, men call in battle. O self-powered one, may this your help come close in the encounter and become irresistible in the plenitudes of force.
त्वाम् । ह॒ । त्यत् । इ॒न्द्र॒ । अर्ण॑ऽसातौ । स्वः॑ऽमीळ्हे । नरः॑ । आ॒जा । ह॒व॒न्ते॒ । तव॑ । स्व॒धा॒ऽवः । इ॒यम् । आ । स॒ऽम॒र्ये । ऊ॒तिः । वाजे॑षु । अ॒त॒साय्या॑ । भू॒त् ॥त्वाम् । ह । त्यत् । इन्द्र । अर्णसातौ । स्वःमीळ्हे । नरः । आजा । हवन्ते । तव । स्वधावः । इयम् । आ । समर्ये । ऊतिः । वाजेषु । अतसाय्या । भूत् ॥tvām | ha | tyat | indra | arṇa-sātau | svaḥ-mīḷhe | naraḥ | ājā | havante | tava | svadhāvaḥ | iyam | ā | sa-marye | ūtiḥ | vājeṣu | atasāyyā | bhūt