Sukta 1.63
त्वं ह त्यदिन्द्रारिषण्यन्दृळ्हस्य चिन्मर्तानामजुष्टौ । व्यस्मदा काष्ठा अर्वते वर्घनेव वज्रिञ्छ्नथिह्यमित्रान् ॥
त्वं ह॒ त्यदि॒न्द्रारि॑षण्यन्दृ॒ळ्हस्य॑ चि॒न्मर्ता॑ना॒मजु॑ष्टौ । व्य१॒॑स्मदा काष्ठा॒ अर्व॑ते वर्घ॒नेव॑ वज्रिञ्छ्नथिह्य॒मित्रा॑न् ॥
tváṃ ha tyád indrā́riṣaṇyan dṛḷhásya cid mártānām ájuṣṭau | vy asmád ā́ kāṣṭhā́ árvate vaḥ ghanā́iva vajriñ chnathihi amítrān ||
You indeed, O Indra, guarding us from harm—even against the hard-set resistance of mortals who consent not—drive away from us the hostile limits. As with a hammer, O wielder of the bolt, smash the enemies for our onward movement.
त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । अरि॑षण्यन् । दृ॒ळ्हस्य॑ । चि॒त् । मर्ता॑नाम् । अजु॑ष्टौ । वि । अ॒स्मत् । आ । काष्ठाः॑ । अर्व॑ते । वः॒ । घ॒नाऽइ॑व । व॒ज्रि॒न् । श्न॒थि॒हि॒ । अ॒मित्रा॑न् ॥त्वम् । ह । त्यत् । इन्द्र । अरिषण्यन् । दृळ्हस्य । चित् । मर्तानाम् । अजुष्टौ । वि । अस्मत् । आ । काष्ठाः । अर्वते । वः । घनाइव । वज्रिन् । श्नथिहि । अमित्रान् ॥tvam | ha | tyat | indra | ariṣaṇyan | dṛḷhasya | cit | martānām | ajuṣṭau | vi | asmat | ā | kāṣṭhāḥ | arvate | vaḥ | ghanāiva | vajrin | śnathihi | amitrān