Sukta 1.63
त्वं ह त्यदिन्द्र चोदीः सखा वृत्रं यद्वज्रिन्वृषकर्मन्नुभ्नाः । यद्ध शूर वृषमणः पराचैर्वि दस्यूँर्योनावकृतो वृथाषाट् ॥
त्वं ह॒ त्यदि॑न्द्र चोदी॒: सखा॑ वृ॒त्रं यद्व॑ज्रिन्वृषकर्मन्नु॒भ्नाः । यद्ध॑ शूर वृषमणः परा॒चैर्वि दस्यूँ॒र्योना॒वकृ॑तो वृथा॒षाट् ॥
tváṃ ha tyád indra codī́ḥ sákhā vṛtráṃ yád vajrin vṛṣa-karman ubhnā́ḥ | yád dha śūra vṛṣa-maṇaḥ parācáir ví dasyū́ṃr yónāv ákṛto vṛthāṣā́ṭ ||
You indeed, O Indra, impelled your comrade-force when, O wielder of the bolt, doer of the mighty work, you struck down Vṛtra. When, O hero, strong in delight of power, you drove apart the Dasyus and cast them down into the womb of obscurity—victorious over falsehood.
त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । चो॒दीः॒ । सखा॑ । वृ॒त्रम् । यत् । व॒ज्रि॒न् । वृ॒ष॒ऽक॒र्म॒न् । उ॒भ्नाः । यत् । ह॒ । शू॒र॒ । वृ॒ष॒ऽम॒णः॒ । प॒रा॒चैः । वि । दस्यू॑न् । योनौ॑ । अकृ॑तः । वृ॒था॒षाट् ॥त्वम् । ह । त्यत् । इन्द्र । चोदीः । सखा । वृत्रम् । यत् । वज्रिन् । वृषकर्मन् । उभ्नाः । यत् । ह । शूर । वृषमणः । पराचैः । वि । दस्यून् । योनौ । अकृतः । वृथाषाट् ॥tvam | ha | tyat | indra | codīḥ | sakhā | vṛtram | yat | vajrin | vṛṣa-karman | ubhnāḥ | yat | ha | śūra | vṛṣa-maṇaḥ | parācaiḥ | vi | dasyūn | yonau | akṛtaḥ | vṛthāṣāṭ