Sukta 1.63
त्वं सत्य इन्द्र धृष्णुरेतान्त्वमृभुक्षा नर्यस्त्वं षाट् । त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्साय द्युमते सचाहन् ॥
त्वं स॒त्य इ॑न्द्र धृ॒ष्णुरे॒तान्त्वमृ॑भु॒क्षा नर्य॒स्त्वं षाट् । त्वं शुष्णं॑ वृ॒जने॑ पृ॒क्ष आ॒णौ यूने॒ कुत्सा॑य द्यु॒मते॒ सचा॑हन् ॥
tváṃ satyá indra dhṛṣṇúr etā́ṃ tvám ṛbhukṣā́ naryás tváṃ ṣā́ṭ | tváṃ śúṣṇaṃ vṛjáne pṛkṣá āṇáu yū́ne kútsāya dyumáte sácā ahan ||
You are the Truth, O Indra, daring in these acts; you are the master of skill, the heroic, the victorious. You struck down Śuṣṇa in the battle-press, in the clash of onset, together with the young and luminous Kutsa—so the light-bearing may prevail.
त्वम् । स॒त्यः । इ॒न्द्र॒ । धृ॒ष्णुः । ए॒तान् । त्वम् । ऋ॒भु॒क्षाः । नर्यः॑ । त्वम् । षाट् । त्वम् । शुष्ण॑म् वृ॒जने॑ । पृ॒क्षे । आ॒णौ । यूने॑ । कुत्सा॑य । द्यु॒मते॑ । सचा॑ । अ॒ह॒न् ॥त्वम् । सत्यः । इन्द्र । धृष्णुः । एतान् । त्वम् । ऋभुक्षाः । नर्यः । त्वम् । षाट् । त्वम् । शुष्णम् वृजने । पृक्षे । आणौ । यूने । कुत्साय । द्युमते । सचा । अहन् ॥tvam | satyaḥ | indra | dhṛṣṇuḥ | etān | tvam | ṛbhukṣāḥ | naryaḥ | tvam | ṣāṭ | tvam | śuṣṇam | vṛjane | pṛkṣe | āṇau | yūne | kutsāya | dyumate | sacā | ahan