Sukta 1.63
आ यद्धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात् । येनाविहर्यतक्रतो अमित्रान्पुर इष्णासि पुरुहूत पूर्वीः ॥
आ यद्धरी॑ इन्द्र॒ विव्र॑ता॒ वेरा ते॒ वज्रं॑ जरि॒ता बा॒ह्वोर्धा॑त् । येना॑विहर्यतक्रतो अ॒मित्रा॒न्पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ॥
ā yád dhárī indra ví-vratā vērā́ te vájraṃ jaritā́ bāhvór dhā́t | yéna aviharyatakrato amítrān púra iṣṇā́si puruhūta pūrvī́ḥ ||
When your two radiant steeds, O Indra, wide-ranging, come near, the singer sets your thunderbolt in your arms—by which, O irresistible in will, you drive against the hostile powers and shatter many ancient strongholds, O much-invoked.
आ । यत् । हरी॒ इति॑ । इ॒न्द्र॒ । विऽव्र॑ता । वेः । आ । ते॒ । वज्र॑म् । ज॒रि॒ता । बा॒ह्वोः । धा॒त् । येन॑ । अ॒वि॒ह॒र्य॒त॒क्र॒तो॒ इत्य॑विहर्यतऽक्रतो । अ॒मित्रा॑न् । पुरः॑ । इ॒ष्णासि॑ । पु॒रु॒ऽहू॒त॒ । पू॒र्वीः ॥आ । यत् । हरी इति । इन्द्र । विव्रता । वेः । आ । ते । वज्रम् । जरिता । बाह्वोः । धात् । येन । अविहर्यतक्रतो इत्यविहर्यतक्रतो । अमित्रान् । पुरः । इष्णासि । पुरुहूत । पूर्वीः ॥ā | yat | harī iti | indra | vi-vratā | veḥ | ā | te | vajram | jaritā | bāhvoḥ | dhāt | yena | aviharyatakrato ity aviharyata-krato | amitrān | puraḥ | iṣṇāsi | puru-hūta | pūrvīḥ