Sukta 1.63
त्वं महाँ इन्द्र यो ह शुष्मैर्द्यावा जज्ञानः पृथिवी अमे धाः । यद्ध ते विश्वा गिरयश्चिदभ्वा भिया दृळ्हासः किरणा नैजन् ॥
त्वं म॒हाँ इ॑न्द्र॒ यो ह॒ शुष्मै॒र्द्यावा॑ जज्ञा॒नः पृ॑थि॒वी अमे॑ धाः । यद्ध॑ ते॒ विश्वा॑ गि॒रय॑श्चि॒दभ्वा॑ भि॒या दृ॒ळ्हास॑: कि॒रणा॒ नैज॑न् ॥
tváṃ mahā́ṃ indra yó ha śúṣmair dyā́vā jajñānáḥ pṛthivī́ áme dhāḥ | yád dha te víśvā giráyaś cid ábhvā bhiyā́ dṛḷhā́saḥ kiráṇā náijan ||
You are the Great One, O Indra—who by your forces, being born with Heaven and Earth, set them in their proper measures. When even all the vast mountains, firm-set, did not stir—held by awe of you, as rays are steadied in their course.
त्वम् । म॒हान् । इ॒न्द्र॒ । यः । ह॒ । शुष्मैः॑ । द्यावा॑ । ज॒ज्ञा॒नः । पृ॒थि॒वी इति॑ । अमे॑ । घाः॒ । यत् । ह॒ । ते॒ । विश्वा॑ । गि॒रयः॑ । चि॒त् । अभ्वा॑ । भि॒या । दृ॒ळ्हासः॑ । कि॒रणाः॑ । न । ऐज॑न् ॥त्वम् । महान् । इन्द्र । यः । ह । शुष्मैः । द्यावा । जज्ञानः । पृथिवी इति । अमे । घाः । यत् । ह । ते । विश्वा । गिरयः । चित् । अभ्वा । भिया । दृळ्हासः । किरणाः । न । ऐजन् ॥tvam | mahān | indra | yaḥ | ha | śuṣmaiḥ | dyāvā | jajñānaḥ | pṛthivī iti | ame | ghāḥ | yat | ha | te | viśvā | girayaḥ | cit | abhvā | bhiyā | dṛḷhāsaḥ | kiraṇāḥ | na | aijan