Sukta 1.62
सनेमि सख्यं स्वपस्यमानः सूनुर्दाधार शवसा सुदंसाः । आमासु चिद्दधिषे पक्वमन्तः पयः कृष्णासु रुशद्रोहिणीषु ॥
सने॑मि स॒ख्यं स्व॑प॒स्यमा॑नः सू॒नुर्दा॑धार॒ शव॑सा सु॒दंसा॑: । आ॒मासु॑ चिद्दधिषे प॒क्वम॒न्तः पय॑: कृ॒ष्णासु॒ रुश॒द्रोहि॑णीषु ॥
sánemi sakhyáṃ svapasyámānaḥ sūnúr dā́dhāra śávasā sudáṃsāḥ | āmā́su cid dadhīṣe pákvam antáḥ páyaḥ kṛṣṇā́su rúśad róhiṇīṣu ||
Seeking the friendship, working with right skill, the Son upheld by strength his fair mastery. Even in the raw, you set the ripe within: milk of light shines out amid the dark and ruddy forms.
सने॑मि । स॒ख्यम् । सु॒ऽअ॒प॒स्यमा॑नः । सू॒नुः । दा॒धा॒र॒ । शव॑सा । सु॒ऽदंसाः॑ । आ॒मासु॑ । चि॒त् । द॒धि॒षे॒ । प॒क्वम् । अ॒न्तरिति॑ । पयः॑ । कृ॒ष्णासु॑ । रुश॑त् । रोहि॑णीषु ॥सनेमि । सख्यम् । सुअपस्यमानः । सूनुः । दाधार । शवसा । सुदंसाः । आमासु । चित् । दधिषे । पक्वम् । अन्तरिति । पयः । कृष्णासु । रुशत् । रोहिणीषु ॥sanemi | sakhyam | su-apasyamānaḥ | sūnuḥ | dādhāra | śavasā | su-daṃsāḥ | āmāsu | cit | dadhiṣe | pakvam | antariti | payaḥ | kṛṣṇāsu | ruśat | rohiṇīṣu