Sukta 1.62
सनाद्दिवं परि भूमा विरूपे पुनर्भुवा युवती स्वेभिरेवैः । कृष्णेभिरक्तोषा रुशद्भिर्वपुर्भिरा चरतो अन्यान्या ॥
स॒नाद्दिवं॒ परि॒ भूमा॒ विरू॑पे पुन॒र्भुवा॑ युव॒ती स्वेभि॒रेवै॑: । कृ॒ष्णेभि॑र॒क्तोषा रुश॑द्भि॒र्वपु॑र्भि॒रा च॑रतो अ॒न्यान्या॑ ॥
sanā́d dívam pári bhū́mā vírūpe punár-bhuvā yuvatī́ svébhir évaiḥ | kṛṣṇébhir aktóṣā́ rúśadbhir vápurbhir ā́ carato anyā́nyā ||
From of old, Heaven and Earth, two in different forms, are ever renewed, the two young maidens moving by their own impulsions. Night, anointed with darkness, and Dawn with shining bodies, move on, each following the other.
स॒नात् । दिव॑म् । परि॑ । भूम॑ । विरू॑पे॒ इति॒ विऽरू॑पे । पु॒नः॒ऽभुवा॑ । यु॒व॒ती इति॑ । स्वेभिः॑ । एवैः॑ । कृ॒ष्णेभिः॑ । अ॒क्ता । उ॒षाः । रुश॑त्ऽभिः । वपुः॑ऽभिः । आ । च॒र॒तः॒ । अ॒न्याऽअ॑न्या ॥सनात् । दिवम् । परि । भूम । विरूपे इति विरूपे । पुनःभुवा । युवती इति । स्वेभिः । एवैः । कृष्णेभिः । अक्ता । उषाः । रुशत्भिः । वपुःभिः । आ । चरतः । अन्याअन्या ॥sanāt | divam | pari | bhūma | virūpeitivi-rūpe | punaḥ-bhuvā | yuvatī iti | svebhiḥ | evaiḥ | kṛṣṇebhiḥ | aktā | uṣāḥ | ruśat-bhiḥ | vapuḥ-bhiḥ | ā | carataḥ | anyāanyā