Sukta 1.62
सनात्सनीळा अवनीरवाता व्रता रक्षन्ते अमृताः सहोभिः । पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति स्वसारो अह्रयाणम् ॥
स॒नात्सनी॑ळा अ॒वनी॑रवा॒ता व्र॒ता र॑क्षन्ते अ॒मृता॒: सहो॑भिः । पु॒रू स॒हस्रा॒ जन॑यो॒ न पत्नी॑र्दुव॒स्यन्ति॒ स्वसा॑रो॒ अह्र॑याणम् ॥
sanā́t sanī́ḷā avánīr avātā́ vratā́ rakṣante amṛ́tāḥ sáhobhiḥ | purū́ sahásrā jánayo ná pátnīr duvasyánti svásāro áhrayāṇam ||
From of old, in one common home, the immortal powers, firm and unshaken, guard their laws by their might. Many thousands, like wives, like sisters, do service to the unwearied One.
स॒नात् । सऽनी॑ळाः । अ॒वनीः॑ । अ॒वा॒ताः । व्र॒ता । र॒क्ष॒न्ते॒ । अ॒मृताः॑ । सहः॑ऽभिः । पु॒रु । स॒हस्रा॑ । जन॑यः । न । पत्नीः॑ । दु॒व॒स्यन्ति॑ । स्वसा॑रः । अह्र॑याणम् ॥सनात् । सनीळाः । अवनीः । अवाताः । व्रता । रक्षन्ते । अमृताः । सहःभिः । पुरु । सहस्रा । जनयः । न । पत्नीः । दुवस्यन्ति । स्वसारः । अह्रयाणम् ॥sanāt | sa-nīḷāḥ | avanīḥ | avātāḥ | vratā | rakṣante | amṛtāḥ | sahaḥ-bhiḥ | puru | sahasrā | janayaḥ | na | patnīḥ | duvasyanti | svasāraḥ | ahrayāṇam