Sukta 1.62
द्विता वि वव्रे सनजा सनीळे अयास्यः स्तवमानेभिरर्कैः । भगो न मेने परमे व्योमन्नधारयद्रोदसी सुदंसाः ॥
द्वि॒ता वि व॑व्रे स॒नजा॒ सनी॑ळे अ॒यास्य॒: स्तव॑मानेभिर॒र्कैः । भगो॒ न मेने॑ पर॒मे व्यो॑म॒न्नधा॑रय॒द्रोद॑सी सु॒दंसा॑: ॥
dvitā́ ví vavre sa-nájā́ sanī́ḷe ayā́syaḥ stávamānebhir arkáiḥ | bhágo ná ménē paramé vyòman adhā́rayad ródasī su-dáṃsāḥ ||
Twice he unfolded—ancient-born, in the same home—Ayāsya by hymns of praise. Like Bhaga he took his seat in the highest heaven; by his fair mastery he upheld the two worlds.
द्वि॒ता । वि । व॒व्रे॒ । स॒ऽनजा॑ । सनी॑ळे॒ इति॒ सऽनी॑ळे । अ॒यास्यः॑ । स्तव॑मानेभिः । अ॒र्कैः । भगः॑ । न । मेने॒ इति॑ । प॒र॒मे । विऽओ॑मन् । अधा॑रयत् । रोद॑सी॒ इति॑ । सु॒ऽदंसाः॑ ॥द्विता । वि । वव्रे । सनजा । सनीळे इति सनीळे । अयास्यः । स्तवमानेभिः । अर्कैः । भगः । न । मेने इति । परमे । विओमन् । अधारयत् । रोदसी इति । सुदंसाः ॥dvitā | vi | vavre | sa-najā | sanīḷe itisa-nīḷe | ayāsyaḥ | stavamānebhiḥ | arkaiḥ | bhagaḥ | na | meneiti | parame | vi-oman | adhārayat | rodasī iti | su-daṃsāḥ