Sukta 1.62
तदु प्रयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः । उपह्वरे यदुपरा अपिन्वन्मध्वर्णसो नद्यश्चतस्रः ॥
तदु॒ प्रय॑क्षतममस्य॒ कर्म॑ द॒स्मस्य॒ चारु॑तममस्ति॒ दंस॑: । उ॒प॒ह्व॒रे यदुप॑रा॒ अपि॑न्व॒न्मध्व॑र्णसो न॒द्य१॒॑श्चत॑स्रः ॥
tád u prayákṣatamam asya kárma dasmásya cā́rutamam asti dáṃsaḥ | upahvaré yád uparā́ apinvan mádhvarṇaso nadyaś cátasraḥ ||
This indeed is his most manifest work, this is the most beautiful mastery of the Wonder-worker: in the near hollow, when the upper powers swelled, the four rivers with honeyed streams flowed full.
तत् । ऊँ॒ इति॑ । प्रय॑क्षऽतमम् । अ॒स्य॒ । कर्म॑ । द॒स्मस्य॑ । चारु॑ऽतमम् । अ॒स्ति॒ । दंसः॑ । उ॒प॒ऽह्व॒रे । यत् । उप॑राः । अपि॑न्वत् । मधु॑ऽअर्णसः । न॒द्यः॑ । चत॑स्रः ॥तत् । ऊँ इति । प्रयक्षतमम् । अस्य । कर्म । दस्मस्य । चारुतमम् । अस्ति । दंसः । उपह्वरे । यत् । उपराः । अपिन्वत् । मधुअर्णसः । नद्यः । चतस्रः ॥tat | oṃ iti | prayakṣa-tamam | asya | karma | dasmasya | cāru-tamam | asti | daṃsaḥ | upa-hvare | yat | uparāḥ | apinvat | madhu-arṇasaḥ | nadyaḥ | catasraḥ