Sukta 1.62
गृणानो अङ्गिरोभिर्दस्म वि वरुषसा सूर्येण गोभिरन्धः । वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरमस्तभायः ॥
गृ॒णा॒नो अङ्गि॑रोभिर्दस्म॒ वि व॑रु॒षसा॒ सूर्ये॑ण॒ गोभि॒रन्ध॑: । वि भूम्या॑ अप्रथय इन्द्र॒ सानु॑ दि॒वो रज॒ उप॑रमस्तभायः ॥
gṛṇā́nō áṅgirobhir dasma ví vō var uṣásā sū́ryeṇa góbhir ándhaḥ | ví bhū́myā aprathaya indra sā́nu divó rája úparam astabhāyaḥ ||
Singing with the Angirases, O Wonder-worker, you opened out the darkness by the Dawn, by the Sun, by the Cows of light. You widened the summit from the earth, O Indra; you set firm the upper realm of heaven’s expanse.
गृ॒णा॒नः । अङ्गि॑रःऽभिः । द॒स्म॒ । वि । वः॒ । उ॒षसा॑ । सूर्ये॑ण । गोभिः॑ । अन्धः॑ । वि । भूम्याः॑ । अ॒प्र॒थ॒यः॒ । इ॒न्द्र॒ । सानु॑ । दि॒वः । रजः॑ । उप॑रम् । अ॒स्त॒भा॒यः॒ ॥गृणानः । अङ्गिरःभिः । दस्म । वि । वः । उषसा । सूर्येण । गोभिः । अन्धः । वि । भूम्याः । अप्रथयः । इन्द्र । सानु । दिवः । रजः । उपरम् । अस्तभायः ॥gṛṇānaḥ | aṅgiraḥ-bhiḥ | dasma | vi | vaḥ | uṣasā | sūryeṇa | gobhiḥ | andhaḥ | vi | bhūmyāḥ | aprathayaḥ | indra | sānu | divaḥ | rajaḥ | uparam | astabhāyaḥ