Sukta 1.62
स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो नवग्वैः । सरण्युभिः फलिगमिन्द्र शक्र वलं रवेण दरयो दशग्वैः ॥
स सु॒ष्टुभा॒ स स्तु॒भा स॒प्त विप्रै॑: स्व॒रेणाद्रिं॑ स्व॒र्यो॒३॒॑ नव॑ग्वैः । स॒र॒ण्युभि॑: फलि॒गमि॑न्द्र शक्र व॒लं रवे॑ण दरयो॒ दश॑ग्वैः ॥
sá suṣṭúbhā sá stubhā sáptá vípraiḥ sváreṇā́drim svaryò náva-gvaiḥ | saraṇyúbhiḥ phaligám indra śakra valáṃ ráveṇa darayo dáśa-gvaiḥ ||
He—by the perfect hymn, by the chant—together with the seven inspired seers, with the sound that brings the light, and with the Navagvas who seek the luminous world, broke the rock. With swift-moving powers, O Indra the Mighty, you shattered Vala by the cry, with the Daśagvas.
सः । सु॒ऽस्तुभा॑ । सः । स्तु॒भा । स॒प्त । विप्रैः॑ । स्व॒रेण॑ । अद्रि॑म् । स्व॒र्यः॑ । नव॑ऽग्वैः । स॒र॒ण्युऽभिः॑ । फ॒लि॒ऽगम् । इ॒न्द्र॒ । श॒क्र॒ । व॒लम् । रवे॑ण । दश॑ऽग्वैः ॥सः । सुस्तुभा । सः । स्तुभा । सप्त । विप्रैः । स्वरेण । अद्रिम् । स्वर्यः । नवग्वैः । सरण्युभिः । फलिगम् । इन्द्र । शक्र । वलम् । रवेण । दशग्वैः ॥saḥ | su-stubhā | saḥ | stubhā | sapta | vipraiḥ | svareṇa | adrim | svaryaḥ | nava-gvaiḥ | saraṇyu-bhiḥ | phali-gam | indra | śakra | valam | raveṇa | daśa-gvaiḥ