Sukta 1.62
इन्द्रस्याङ्गिरसां चेष्टौ विदत्सरमा तनयाय धासिम् । बृहस्पतिर्भिनदद्रिं विदद्गाः समुस्रियाभिर्वावशन्त नरः ॥
इन्द्र॒स्याङ्गि॑रसां चे॒ष्टौ वि॒दत्स॒रमा॒ तन॑याय धा॒सिम् । बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः समु॒स्रिया॑भिर्वावशन्त॒ नर॑: ॥
índrasya áṅgirasāṃ ceṣṭáu vidát sáramā tánayāya dhā́sīm | bṛ́haspátir bhínad ádrim vidád gā́ḥ sám usríyābhir vāvaśanta nárāḥ ||
In the destined quest of Indra and the Angirases, Saramā discovered the hidden abundance for the child of the soul. Bṛhaspati broke open the rock of obstruction and found the luminous Cows; the human seekers, united with the shining Lights, cried out in awakening.
इन्द्र॑स्य । अङ्गि॑रसाम् । च॒ । इ॒ष्टौ । वि॒दत् । स॒रमा॑ । तन॑याय । धा॒सिम् । बृह॒स्पतिः॑ । भि॒नत् । अद्रि॑म् । वि॒दत् । गाः । सम् । उ॒स्रिया॑भिः । वा॒व॒श॒न्त॒ । नरः॑ ॥इन्द्रस्य । अङ्गिरसाम् । च । इष्टौ । विदत् । सरमा । तनयाय । धासिम् । बृहस्पतिः । भिनत् । अद्रिम् । विदत् । गाः । सम् । उस्रियाभिः । वावशन्त । नरः ॥indrasya | aṅgirasām | ca | iṣṭau | vidat | saramā | tanayāya | dhāsim | bṛhaspatiḥ | bhinat | adrim | vidat | gāḥ | sam | usriyābhiḥ | vāvaśanta | naraḥ