Sukta 1.6
अतः परिज्मन्ना गहि दिवो वा रोचनादधि । समस्मिन्नृञ्जते गिरः ॥
अत॑: परिज्म॒न्ना ग॑हि दि॒वो वा॑ रोच॒नादधि॑ । सम॑स्मिन्नृञ्जते॒ गिर॑: ॥
átaḥ parijmánnā́ gahi divó vā rocanā́d ádhi | sám asmin ṛñjate gíraḥ ||
Therefore, O thou who movest on every side, come hither—either from the luminous world of heaven or from its radiant realm above; in this (our offering and our being) the inspired words are being set in harmony and made ready for thee.
अतः॑ । प॒रि॒ज्म॒न् । आ । ग॒हि॒ । दि॒वः । वा॒ । रो॒च॒नात् । अधि॑ । सम् । अ॒स्मि॒न् । ऋ॒ञ्ज॒ते॒ । गिरः॑ ॥अतः । परिज्मन् । आ । गहि । दिवः । वा । रोचनात् । अधि । सम् । अस्मिन् । ऋञ्जते । गिरः ॥ataḥ | parijman | ā | gahi | divaḥ | vā | rocanāt | adhi | sam | asmin | ṛñjate | giraḥ