Sukta 1.6
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे । शोणा धृष्णू नृवाहसा ॥
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥
yuñjanty asya kāmyā harī vipakṣasā rathe | śoṇā dhṛṣṇū nṛvāhasā ||
They yoke for him, as objects of the soul’s longing, the two tawny powers (his steeds) to the chariot—wide-winged in their movement—ruddy, forceful, and bearers of the human being: the energies that carry the seeker toward the Lord of luminous strength.
यु॒ञ्जन्ति॑ । अ॒स्य॒ । काम्या॑ । हरी॒ इति॑ । विप॑क्षसा । रथे॑ । शोणा॑ । धृ॒ष्णू इति॑ । नृ॒ऽवाह॑सा ॥युञ्जन्ति । अस्य । काम्या । हरी इति । विपक्षसा । रथे । शोणा । धृष्णू इति । नृवाहसा ॥yuñjanti | asya | kāmyā | harī iti | vipakṣasā | rathe | śoṇā | dhṛṣṇū iti | nṛ-vāhasā