Sukta 1.57
भूरि त इन्द्र वीर्यं तव स्मस्यस्य स्तोतुर्मघवन्काममा पृण । अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे ॥
भूरि॑ त इन्द्र वी॒र्यं१॒॑ तव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न्काम॒मा पृ॑ण । अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्यं॑ मम इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ॥
bhū́ri ta indra vīryàṃ táva smasy asyá stotúr maghavan kā́mam ā́ pṛṇa | ánu te dyáur bṛhatī́ vīryàṃ mama iyáṃ ca te pṛthivī́ némā ojáse ||
Abundant is your heroic power, O Indra; we are of you. O Maghavan, fulfil the desire of this singer. Following your might, the vast Heaven (too) and this Earth move in measure for your strength.
भूरि॑ । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । तव॑ । स्म॒सि॒ । अ॒स्य । स्तो॒तुः । म॒घऽव॒न् । काम॑म् । आ । पृ॒ण॒ । अनु॑ । ते॒ । द्यौः । बृ॒ह॒ती । वी॒र्य॑म् । म॒मे॒ । इ॒यम् । च॒ । ते॒ । पृ॒थि॒वी । ने॒मे॒ । ओज॑से ॥भूरि । ते । इन्द्र । वीर्यम् । तव । स्मसि । अस्य । स्तोतुः । मघवन् । कामम् । आ । पृण । अनु । ते । द्यौः । बृहती । वीर्यम् । ममे । इयम् । च । ते । पृथिवी । नेमे । ओजसे ॥bhūri | te | indra | vīryam | tava | smasi | asya | stotuḥ | magha-van | kāmam | ā | pṛṇa | anu | te | dyauḥ | bṛhatī | vīryam | mame | iyam | ca | te | pṛthivī | neme | ojase