Sukta 1.57
त्वं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन्पर्वशश्चकर्तिथ । अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥
त्वं तमि॑न्द्र॒ पर्व॑तं म॒हामु॒रुं वज्रे॑ण वज्रिन्पर्व॒शश्च॑कर्तिथ । अवा॑सृजो॒ निवृ॑ता॒: सर्त॒वा अ॒पः स॒त्रा विश्वं॑ दधिषे॒ केव॑लं॒ सह॑: ॥
tvám tám indra párvataṃ mahám urúṃ vájreṇa vajrin parvaśáś cákartitha | ávā́sṛjo ni-vṛ́tāḥ sártavā́ ápaḥ satrá̄ víśvaṃ dadhiṣé kévalaṃ sáhaḥ ||
You, O Indra, didst cleave that vast and wide mountain with the thunderbolt, O wielder of the thunderbolt, breaking it into its joints. Thou didst release downward the waters that were held back, that they might flow; and thou upholdest everywhere the whole world by thy sole concentrated Might.
त्वम् । तम् । इ॒न्द्र॒ । पर्व॑तम् । म॒हाम् । उ॒रुम् । वज्रे॑ण । व॒ज्रि॒न् । प॒र्व॒ऽशः । च॒क॒र्ति॒थ॒ । अव॑ । अ॒सृ॒जः॒ । निऽवृ॑ताः । सर्त॒वै । अ॒पः । स॒त्रा । विश्व॑म् । द॒धि॒षे॒ । केव॑लम् । सहः॑ ॥त्वम् । तम् । इन्द्र । पर्वतम् । महाम् । उरुम् । वज्रेण । वज्रिन् । पर्वशः । चकर्तिथ । अव । असृजः । निवृताः । सर्तवै । अपः । सत्रा । विश्वम् । दधिषे । केवलम् । सहः ॥tvam | tam | indra | parvatam | mahām | urum | vajreṇa | vajrin | parva-śaḥ | cakartitha | ava | asṛjaḥ | ni-vṛtāḥ | sartavai | apaḥ | satrā | viśvam | dadhiṣe | kevalam | sahaḥ