Sukta 1.57
इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो । नहि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति नो हर्य तद्वचः ॥
इ॒मे त॑ इन्द्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा॑मसि प्रभूवसो । न॒हि त्वद॒न्यो गि॑र्वणो॒ गिर॒: सघ॑त्क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद्वच॑: ॥
imé ta indra te vayáṃ puruṣṭuta yé tvā́rabhya cárāmasi prabhūvaso | náhi tvád anyó girvaṇo gíraḥ sághat kṣoṇī́r iva práti no harya tád vácaḥ ||
These are yours, O Indra—these we are, O much-praised—who, taking hold of you, move in your mastery. None other than you, O lover of the hymn, can bear our songs as the earth bears burdens; accept, then, this word of ours.
इ॒मे । ते॒ । इ॒न्द्र॒ । ते । व॒यम् । पु॒रु॒ऽस्तु॒त॒ । ये । त्वा॒ । आ॒ऽरभ्य॑ । चरा॑मसि । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो । न॒हि । त्वत् । अ॒न्यः । गि॒र्व॒णः॒ । गिरः॑ । सघ॑त् । क्षो॒णीःऽइ॑व । प्रति॑ । नः॒ । ह॒र्य॒ । तत् । वचः॑ ॥इमे । ते । इन्द्र । ते । वयम् । पुरुस्तुत । ये । त्वा । आरभ्य । चरामसि । प्रभुवसो इति प्रभुवसो । नहि । त्वत् । अन्यः । गिर्वणः । गिरः । सघत् । क्षोणीःइव । प्रति । नः । हर्य । तत् । वचः ॥ime | te | indra | te | vayam | puru-stuta | ye | tvā | ārabhya | carāmasi | prabhuvaso itiprabhu-vaso | nahi | tvat | anyaḥ | girvaṇaḥ | giraḥ | saghat | kṣoṇīḥ-iva | prati | naḥ | harya | tat | vacaḥ