Sukta 1.55
दानाय मनः सोमपावन्नस्तु तेऽर्वाञ्चा हरी वन्दनश्रुदा कृधि । यमिष्ठासः सारथयो य इन्द्र ते न त्वा केता आ दभ्नुवन्ति भूर्णयः ॥
दा॒नाय॒ मन॑: सोमपावन्नस्तु ते॒ऽर्वाञ्चा॒ हरी॑ वन्दनश्रु॒दा कृ॑धि । यमि॑ष्ठास॒: सार॑थयो॒ य इ॑न्द्र ते॒ न त्वा॒ केता॒ आ द॑भ्नुवन्ति॒ भूर्ण॑यः ॥
dānā́ya mánaḥ soma-pāvan astu te’rvā́ñcā hárī vandana-śrudā́ kṛdhi | yámiṣṭhāsaḥ sāratháyo yá indra te ná tvā ketā́ ā́ dabhnuvanti bhūrṇáyaḥ ||
Let your mind be turned to giving, O Soma-drinker; make your two tawny steeds come near, hearers of our praise. For those charioteers of yours, O Indra, most restraining and sure, the swirling impulses cannot deceive; no false perceptions overtake you.
दा॒नाय॑ । मनः॑ । सो॒म॒ऽपा॒व॒न् । अ॒स्तु॒ । ते॒ । अ॒र्वाञ्चा॑ । हरी॒ इति॑ । व॒न्द॒न॒ऽश्रु॒त् । आ । कृ॒धि॒ । यमि॑ष्ठासः । सार॑थयः । ये । इ॒न्द्र्च । ते॒ । न । त्वा॒ । केताः॑ । आ । द॒भ्नु॒व॒न्ति॒ । भूर्ण॑यः ॥दानाय । मनः । सोमपावन् । अस्तु । ते । अर्वाञ्चा । हरी इति । वन्दनश्रुत् । आ । कृधि । यमिष्ठासः । सारथयः । ये । इन्द्र्च । ते । न । त्वा । केताः । आ । दभ्नुवन्ति । भूर्णयः ॥dānāya | manaḥ | soma-pāvan | astu | te | arvāñcā | harī iti | vandana-śrut | ā | kṛdhi | yamiṣṭhāsaḥ | sārathayaḥ | ye | indrca | te | na | tvā | ketāḥ | ā | dabhnuvanti | bhūrṇayaḥ