Sukta 1.55
स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा विनाशयन् । ज्योतींषि कृण्वन्नवृकाणि यज्यवेऽव सुक्रतुः सर्तवा अपः सृजत् ॥
स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा॑ क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् । ज्योतीं॑षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वेऽव॑ सु॒क्रतु॒: सर्त॒वा अ॒पः सृ॑जत् ॥
sa hí śravasyúḥ sádanāni kṛtrímā kṣmáyā vṛdhānó ójasā vi-nāśáyan | jyótīṃṣi kṛṇván avṛkā́ṇi yajyavé’va su-krátuḥ sártavā́ ápaḥ sṛ́jat ||
For he is the seeker of glory, destroying by strength the fabricated seats of darkness upon the earth-field as he grows in might. Making the lights unassailable for the sacrificer, the wise in will releases the waters to flow—letting the streams run in their course.
सः । हि । श्र॒व॒स्युः । सद॑नानि । कृ॒त्रिमा॑ । क्ष्म॒या । वृ॒धा॒नः । ओज॑सा । वि॒ऽना॒शय॑न् । ज्योतीं॑षि । कृ॒ण्वन् । अ॒वृ॒काणि॑ । यज्य॑वे । अव॑ । सु॒ऽक्रतुः॑ । सर्त॒वै । अ॒पः । सृ॒ज॒त् ॥सः । हि । श्रवस्युः । सदनानि । कृत्रिमा । क्ष्मया । वृधानः । ओजसा । विनाशयन् । ज्योतींषि । कृण्वन् । अवृकाणि । यज्यवे । अव । सुक्रतुः । सर्तवै । अपः । सृजत् ॥saḥ | hi | śravasyuḥ | sadanāni | kṛtrimā | kṣmayā | vṛdhānaḥ | ojasā | vi-nāśayan | jyotīṃṣi | kṛṇvan | avṛkāṇi | yajyave | ava | su-kratuḥ | sartavai | apaḥ | sṛjat