Sukta 1.55
अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वि श्रुतो दधे । आवृतासोऽवतासो न कर्तृभिस्तनूषु ते क्रतव इन्द्र भूरयः ॥
अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑यो॒रषा॑ळ्हं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे । आवृ॑तासोऽव॒तासो॒ न क॒र्तृभि॑स्त॒नूषु॑ ते॒ क्रत॑व इन्द्र॒ भूर॑यः ॥
áprākṣitaṃ vásu bibharṣi hástayor aṣā́ḷhaṃ sáhas tanví śrutó dadhé | āvṛ́tāso avatā́so ná kartṛ́bhis tanū́ṣu te krátava indra bhū́rayaḥ ||
You bear in your hands the un-diminishing wealth; in your body you hold the unconquerable force, famed of hearing. In your being, O Indra, are many wills and workings—self-covered, self-guarded, not fashioned by human makers.
अप्र॑ऽक्षितम् । वसु॑ । बि॒भ॒र्षि॒ । हस्त॑योः । अषा॑ळ्हम् । सहः॑ । त॒न्वि॑ । श्रु॒तः । द॒धे॒ । आऽवृ॑तासः । अ॒व॒तासः । न । क॒र्तृऽभिः॑ । त॒नूषु॑ । ते॒ । क्रत॑वः । इ॒न्द्र॒ । भूर॑यः ॥अप्रक्षितम् । वसु । बिभर्षि । हस्तयोः । अषाळ्हम् । सहः । तन्वि । श्रुतः । दधे । आवृतासः । अवतासः । न । कर्तृभिः । तनूषु । ते । क्रतवः । इन्द्र । भूरयः ॥apra-kṣitam | vasu | bibharṣi | hastayoḥ | aṣāḷham | sahaḥ | tanvi | sṛutaḥ | dadhe | āvṛtāsaḥ | avatāsaḥ | na | kartṛ-bhiḥ | tanūṣu | te | kratavaḥ | indra | bhūrayaḥ