Sukta 1.55
स इद्वने नमस्युभिर्वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् । वृषा छन्दुर्भवति हर्यतो वृषा क्षेमेण धेनां मघवा यदिन्वति ॥
स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम् । वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेनां॑ म॒घवा॒ यदिन्व॑ति ॥
sa íd váne namasyúbhir vacasyate cā́ru jáneṣu prabruvāṇá indríyam | vṛ́ṣā chándur bhavati haryató vṛ́ṣā kṣémēṇa dhénāṃ maghávā yád invati ||
He is voiced in the forested being by those who bow; he proclaims his Indra-force as a beautiful thing among men. A bull of power, he becomes the glad delight for the aspiring; a bull again, the bounteous one drives the milch-cow of abundance by peace—pressing out the nourishing flow.
सः । इत् । वने॑ । न॒म॒स्युऽभिः॑ । व॒च॒स्य॒ते॒ । चारु॑ । जने॑षु । प्र॒ऽब्रु॒वा॒णः । इ॒न्द्रि॒यम् । वृषा॑ । छन्दुः॑ । भ॒व॒ति॒ । ह॒र्य॒तः । वृषा॑ । क्षेमे॑ण । धेना॑म् । म॒घवा॑ । यत् । इन्व॑ति ॥सः । इत् । वने । नमस्युभिः । वचस्यते । चारु । जनेषु । प्रब्रुवाणः । इन्द्रियम् । वृषा । छन्दुः । भवति । हर्यतः । वृषा । क्षेमेण । धेनाम् । मघवा । यत् । इन्वति ॥saḥ | it | vane | namasyu-bhiḥ | vacasyate | cāru | janeṣu | pra-bruvāṇaḥ | indri yam | vṛṣā | chanduḥ | bhavati | haryataḥ | vṛṣā | kṣemeṇa | dhenām | maghavā | yat | invati