Sukta 1.55
त्वं तमिन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणामिरज्यसि । प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः ॥
त्वं तमि॑न्द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि । प्र वी॒र्ये॑ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ॥
tváṃ tám indra párvataṃ ná bhojase mahó nṛmṇásya dhármaṇām irajyasi | prá vīryeṇa devátāti cekite víśvasmā ugráḥ kármaṇe puróhitaḥ ||
You, O Indra, are not diminished like a mountain that is eaten away; you blaze forth in the great laws of heroic force. By your might the divine working becomes manifest; for every action you stand in front, the fierce forerunner who leads the labour to victory.
त्वम् । तम् । इ॒न्द्र॒ । पर्व॑तम् । न । भोज॑से । म॒हः । नृ॒म्णस्य॑ । धर्म॑णाम् । इ॒र॒ज्य॒सि॒ । प्र । वी॒र्ये॑ण । दे॒वताति॑ । चे॒कि॒ते॒ । विश्व॑स्मै । उ॒ग्रः । कर्म॑णे । पु॒रःऽहि॑तः ॥त्वम् । तम् । इन्द्र । पर्वतम् । न । भोजसे । महः । नृम्णस्य । धर्मणाम् । इरज्यसि । प्र । वीर्येण । देवताति । चेकिते । विश्वस्मै । उग्रः । कर्मणे । पुरःहितः ॥tvam | tam | indra | parvatam | na | bhojase | mahaḥ | nṛmṇasya | dharmaṇām | irajyasi | pra | vīryeṇa | devatāti | cekite | viśvasmai | ugraḥ | karmaṇe | puraḥ-h itaḥ