Sukta 1.55
सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः । इन्द्रः सोमस्य पीतये वृषायते सनात्स युध्म ओजसा पनस्यते ॥
सो अ॑र्ण॒वो न न॒द्य॑: समु॒द्रिय॒: प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी॑मभिः । इन्द्र॒: सोम॑स्य पी॒तये॑ वृषायते स॒नात्स यु॒ध्म ओज॑सा पनस्यते ॥
só arṇavó na nádyaḥ samudriyáḥ práti gṛbhṇāti ví-śritā vārī́ma-bhiḥ | índraḥ sómasya pītáye vṛṣāyate sanā́t sá yudhmá ójasā panasyate ||
As an ocean receives the rivers, so he gathers to himself the wide-spread currents by their vastness. Indra grows puissant for the drinking of Soma; from of old he, the warrior, rejoices in strength—he increases by the force that wins the delight.
सः । अ॒र्ण॒वः । न । न॒द्यः॑ । स॒मु॒द्रियः॑ । प्रति॑ । गृ॒भ्णा॒ति॒ । विऽश्रि॑ताः । वरी॑मऽभिः । इन्द्रः॑ । सोम॑स्य । पी॒तये॑ । वृ॒ष॒ऽय॒ते॒ । स॒नात् । सः । यु॒ध्मः । ओज॑सा । प॒न॒स्य॒ते॒ ॥सः । अर्णवः । न । नद्यः । समुद्रियः । प्रति । गृभ्णाति । विश्रिताः । वरीमभिः । इन्द्रः । सोमस्य । पीतये । वृषयते । सनात् । सः । युध्मः । ओजसा । पनस्यते ॥saḥ | arṇavaḥ | na | nadyaḥ | samudriyaḥ | prati | gṛbhṇāti | vi-śritāḥ | varīma-bhiḥ | indraḥ | somasya | pītaye | vṛṣa-yate | sanāt | saḥ | yudhmaḥ | ojasā | panasyate