Sukta 1.55
दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवी चन प्रति । भीमस्तुविष्माञ्चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः ॥
दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ । भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः शिशी॑ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ॥
diváś cid asya varimā́ ví papratha índraṃ na mahnā́ pṛthivī́ caná práti | bhīmás tuvíṣmān carṣaṇí-bhya ātapáḥ śiśīte vájraṃ téjase na váṃsagaḥ ||
Even the vastness of heaven is spread out by his wideness; the earth cannot measure him by greatness. Terrible, of overwhelming force, he burns upon the human planes; he sharpens the thunderbolt for the blaze of consciousness, as a smith hones the metal for its shining edge.
दि॒वः । चि॒त् । अ॒स्य॒ । व॒रि॒मा । वि । प॒प्र॒थ॒ । इन्द्र॑म् । न । म॒ह्ना । पृ॒थि॒वी । च॒न । प्रति॑ । भी॒मः । तुवि॑ष्मान् । च॒र्ष॒णिऽभ्यः॑ । आ॒ऽत॒पः । शिशी॑ते । वज्र॑म् । तेज॑से । न । वंस॑गः ॥दिवः । चित् । अस्य । वरिमा । वि । पप्रथ । इन्द्रम् । न । मह्ना । पृथिवी । चन । प्रति । भीमः । तुविष्मान् । चर्षणिभ्यः । आतपः । शिशीते । वज्रम् । तेजसे । न । वंसगः ॥divaḥ | cit | asya | varimā | vi | papratha | indram | na | mahnā | pṛthivī | cana | prati | bhīmaḥ | tuviṣmān | carṣaṇi-bhyaḥ | ātapaḥ | śiśīte | vajram | tejase | na | vaṃsagaḥ