Sukta 1.54
तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः । व्यश्नुहि तर्पया काममेषामथा मनो वसुदेयाय कृष्व ॥
तुभ्येदे॒ते ब॑हु॒ला अद्रि॑दुग्धाश्चमू॒षद॑श्चम॒सा इ॑न्द्र॒पाना॑: । व्य॑श्नुहि त॒र्पया॒ काम॑मेषा॒मथा॒ मनो॑ वसु॒देया॑य कृष्व ॥
túbhyedeté bahulā́ ádridugdhāś camūṣádaś camasā́ indrāpā́nāḥ | vyàśnuhi tarpáyā kā́mam eṣā́m áthā máno vasudéyāya kṛṣva ||
For thee are these many Soma-cups, pressed by the stone, set on the trays—cups for Indra’s drinking. Partake fully; satisfy their desire. Then shape our mind for the giving of the true riches (vasu).
तुभ्य॑ । इत् । ए॒ते । ब॒हु॒लाः । अद्रि॑ऽदुग्धाः । च॒मू॒ऽसदः॑ । च॒म॒साः । इ॒न्द्र॒ऽपानाः॑ । वि । अ॒श्नु॒हि॒ । त॒र्पय॑ । काम॑म् । ए॒षा॒म् । अथ॑ । मनः॑ । व॒सु॒ऽदेया॑य । कृ॒ष्व॒ ॥तुभ्य । इत् । एते । बहुलाः । अद्रिदुग्धाः । चमूसदः । चमसाः । इन्द्रपानाः । वि । अश्नुहि । तर्पय । कामम् । एषाम् । अथ । मनः । वसुदेयाय । कृष्व ॥tubhya | it | ete | bahulāḥ | adri-dugdhāḥ | camū-sadaḥ | camasāḥ | indra-pānāḥ | vi | aśnuhi | tarpaya | kāmam | eṣām | atha | manaḥ | vasu-deyāya | kṛṣva