Sukta 1.54
अपामतिष्ठद्धरुणह्वरं तमोऽन्तर्वृत्रस्य जठरेषु पर्वतः । अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते ॥
अ॒पाम॑तिष्ठद्ध॒रुण॑ह्वरं॒ तमो॒ऽन्तर्वृ॒त्रस्य॑ ज॒ठरे॑षु॒ पर्व॑तः । अ॒भीमिन्द्रो॑ न॒द्यो॑ व॒व्रिणा॑ हि॒ता विश्वा॑ अनु॒ष्ठाः प्र॑व॒णेषु॑ जिघ्नते ॥
apā́m atiṣṭhad dharuṇáhvaraṃ támō'ntár vṛtrásya jaṭháreṣu párvataḥ | abhī́m índro nádyo vavríṇā hitā́ víśvā anuṣṭhā́ḥ praváṇeṣu jighnate ||
The mountain stood over the waters, a wavering darkness, within the bellies of Vṛtra. Indra pressed upon it; the rivers, held and enclosed, are set free—each finding its course, they strike forth along the slopes.
अ॒पाम् । अ॒ति॒ष्ठ॒त् । ध॒रुण॑ऽह्वरम् । तमः । अ॒न्तः । वृ॒त्रस्य॑ । ज॒ठरे॑षु । पर्व॑तः । अ॒भि । ई॒म् । इन्द्रः॑ । न॒द्यः॑ । व॒व्रिणा॑ । हि॒ताः । विश्वाः॑ । अ॒नु॒ऽस्थाः । प्र॒व॒णेषु॑ । जि॒घ्न॒ते॒ ॥अपाम् । अतिष्ठत् । धरुणह्वरम् । तमः । अन्तः । वृत्रस्य । जठरेषु । पर्वतः । अभि । ईम् । इन्द्रः । नद्यः । वव्रिणा । हिताः । विश्वाः । अनुस्थाः । प्रवणेषु । जिघ्नते ॥apām | atiṣṭhat | dharuṇa-hvaram | tamaḥ | antaḥ | vṛtrasya | jaṭhareṣu | parvataḥ | abhi | īm | indraḥ | nadyaḥ | vavriṇā | hitāḥ | viśvāḥ | anu-sthāḥ | pravaṇeṣu | jighnate