Sukta 1.54
असमं क्षत्रमसमा मनीषा प्र सोमपा अपसा सन्तु नेमे । ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं वृष्ण्यं च ॥
अस॑मं क्ष॒त्रमस॑मा मनी॒षा प्र सो॑म॒पा अप॑सा सन्तु॒ नेमे॑ । ये त॑ इन्द्र द॒दुषो॑ व॒र्धय॑न्ति॒ महि॑ क्ष॒त्रं स्थवि॑रं॒ वृष्ण्यं॑ च ॥
ásamaṃ kṣatrám ásamā manīṣā́ prá soma-pā́ apásā santu néme | yé ta indra dadúṣo vardháyanti máhi kṣatrám stháviram vṛ́ṣṇyaṃ ca ||
Unequal is thy sovereignty, unequal thy thought; may these Soma-drinkers go forth with works. They who, O Indra, by giving increase thee, they grow thy great mastery—firm and enduring, and thy bull-force too.
अस॑मम् । क्ष॒त्रम् । अस॑मा । म॒नी॒षा । प्र । सो॒म॒ऽपाः । अप॑सा । स॒न्तु॒ । नेमे॑ । ये । ते॒ । इ॒न्द्र॒ । द॒दुषः॑ । व॒र्धय॑न्ति । महि॑ । क्ष॒त्रम् । स्थवि॑रम् । वृष्ण्य॑म् । च॒ ॥असमम् । क्षत्रम् । असमा । मनीषा । प्र । सोमपाः । अपसा । सन्तु । नेमे । ये । ते । इन्द्र । ददुषः । वर्धयन्ति । महि । क्षत्रम् । स्थविरम् । वृष्ण्यम् । च ॥asamam | kṣatram | asamā | manīṣā | pra | soma-pāḥ | apasā | santu | neme | ye | te | indra | daduṣaḥ | vardhayanti | mahi | kṣatram | sthaviram | vṛṣṇyam | ca