Sukta 1.54
स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः प्रति यः शासमिन्वति । उक्था वा यो अभिगृणाति राधसा दानुरस्मा उपरा पिन्वते दिवः ॥
स घा॒ राजा॒ सत्प॑तिः शूशुव॒ज्जनो॑ रा॒तह॑व्य॒: प्रति॒ यः शास॒मिन्व॑ति । उ॒क्था वा॒ यो अ॑भिगृ॒णाति॒ राध॑सा॒ दानु॑रस्मा॒ उप॑रा पिन्वते दि॒वः ॥
sá ghā rājā́ sátpatiḥ śūśuváj jánō rātá-havyaḥ práti yáḥ śā́sám ínvati | ukthā́ vā yó abhigṛṇā́ti rā́dhasā dā́nur asmā́ uparā́ pinvate diváḥ ||
He indeed is king, lord of the true, the eager people who brings the offered call; he advances the command. Or he who chants the hymns to him with plenitude— to that one the flowing giver (Dānu) swells the upper streams from Heaven.
सः । घ॒ । राजा॑ । सत्ऽप॑तिः । शू॒शु॒व॒त् । जनः॑ । रा॒तऽह॑व्यः । प्रति॑ । यः । शास॑म् । इन्व॑ति । उ॒क्था । वा॒ । यः । अ॒भि॒ऽगृ॒णाति॑ । राध॑सा । दानुः॑ । अ॒स्मै॒ । उप॑रा । पि॒न्व॒ते॒ । दि॒वः ॥सः । घ । राजा । सत्पतिः । शूशुवत् । जनः । रातहव्यः । प्रति । यः । शासम् । इन्वति । उक्था । वा । यः । अभिगृणाति । राधसा । दानुः । अस्मै । उपरा । पिन्वते । दिवः ॥saḥ | gha | rājā | sat-patiḥ | śūśuvat | janaḥ | rāta-havyaḥ | prati | yaḥ | śāsam | invati | ukthā | vā | yaḥ | abhi-gṛṇāti | rādhasā | dānuḥ | asmai | uparā | pinvate | d ivaḥ