Sukta 1.54
त्वमाविथ नर्यं तुर्वशं यदुं त्वं तुर्वीतिं वय्यं शतक्रतो । त्वं रथमेतशं कृत्व्ये धने त्वं पुरो नवतिं दम्भयो नव ॥
त्वमा॑विथ॒ नर्यं॑ तु॒र्वशं॒ यदुं॒ त्वं तु॒र्वीतिं॑ व॒य्यं॑ शतक्रतो । त्वं रथ॒मेत॑शं॒ कृत्व्ये॒ धने॒ त्वं पुरो॑ नव॒तिं द॑म्भयो॒ नव॑ ॥
tvám ā́vitha náryaṃ turváśaṃ yáduṃ tváṃ turvītíṃ vayyyàṃ śatakrato | tváṃ rathám étaśaṃ kṛ́tvye dháne tváṃ púro navatíṃ dambhayo náva ||
Thou hast helped Narya, Turvaśa, Yadu; thou hast helped Turvīti and Vayya, O hundred-powered. Thou hast fashioned the swift chariot for the winning of the work; thou hast shattered ninety and nine strongholds.
त्वम् । आ॒वि॒थ॒ । नर्य॑म् । तु॒र्वश॑म् । यदु॑म् । त्वम् । तु॒र्वीति॑म् । व॒य्य॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । त्वम् । रथ॑म् । एत॑शम् । कृत्व्ये॑ । धने॑ । त्वम् । पुरः॑ । न॒व॒तिम् । द॒म्भ॒यः॒ । नव॑ ॥त्वम् । आविथ । नर्यम् । तुर्वशम् । यदुम् । त्वम् । तुर्वीतिम् । वय्यम् । शतक्रतो इति शतक्रतो । त्वम् । रथम् । एतशम् । कृत्व्ये । धने । त्वम् । पुरः । नवतिम् । दम्भयः । नव ॥tvam | āvitha | naryam | turvaśam | yadum | tvam | turvītim | vayyam | śatakrato itiśata-krato | tvam | ratham | etaśam | kṛtvye | dhane | tvam | puraḥ | navatim | dambhayaḥ | nava