Sukta 1.54
नि यद्वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद्व्रन्दिनो रोरुवद्वना । प्राचीनेन मनसा बर्हणावता यदद्या चित्कृणवः कस्त्वा परि ॥
नि यद्वृ॒णक्षि॑ श्वस॒नस्य॑ मू॒र्धनि॒ शुष्ण॑स्य चिद्व्र॒न्दिनो॒ रोरु॑व॒द्वना॑ । प्रा॒चीने॑न॒ मन॑सा ब॒र्हणा॑वता॒ यद॒द्या चि॑त्कृ॒णव॒: कस्त्वा॒ परि॑ ॥
ní yád vṛṇákṣi śvasanásya mūrdhánī śúṣṇasya cid vrandíno rórūvad vánā | prācīnéna mánasā barhaṇā́vatā yád adyā́ cit kṛṇávaḥ kás tvā pári ||
When thou strikest down upon the head of Śvasana, even of Śuṣṇa the resistive, the woods roar aloud. With thy forward-driving mind, rich in increase, whatever thou doest even today—who can encompass thee?
नि । यत् । वृ॒णक्षि॑ । श्व॒स॒नस्य॑ । मू॒र्धनि॑ । शुष्ण॑स्य । चि॒त् । व्र॒न्दिनः॑ । रोरु॑वत् । वना॑ । प्रा॒चीने॑न । मन॑सा । ब॒र्हणा॑ऽवता । यत् । अ॒द्य । चि॒त् । कृ॒णवः॑ । कः । त्वा॒ । परि॑ ॥नि । यत् । वृणक्षि । श्वसनस्य । मूर्धनि । शुष्णस्य । चित् । व्रन्दिनः । रोरुवत् । वना । प्राचीनेन । मनसा । बर्हणावता । यत् । अद्य । चित् । कृणवः । कः । त्वा । परि ॥ni | yat | vṛṇakṣi | śvasanasya | mūrdhani | śuṣṇasya | cit | vrandinaḥ | roruvat | vanā | prācīnena | manasā | barhaṇāvatā | yat | adya | cit | kṛṇavaḥ | kaḥ | tvā | pari