Sukta 1.54
त्वं दिवो बृहतः सानु कोपयोऽव त्मना धृषता शम्बरं भिनत् । यन्मायिनो व्रन्दिनो मन्दिना धृषच्छितां गभस्तिमशनिं पृतन्यसि ॥
त्वं दि॒वो बृ॑ह॒तः सानु॑ कोप॒योऽव॒ त्मना॑ धृष॒ता शम्ब॑रं भिनत् । यन्मा॒यिनो॑ व्र॒न्दिनो॑ म॒न्दिना॑ धृ॒षच्छि॒तां गभ॑स्तिम॒शनिं॑ पृत॒न्यसि॑ ॥
tváṃ divó bṛhatáḥ sā́nu kopáyo'vá tmánā dhṛṣatá śámbaraṃ bhinat | yán māyíno vrandíno mandínā dhṛ́ṣac-chitā́ṃ gábhastim aśánim pṛtanyási ||
Thou shakest the ridge of the vast Heaven; by thy own self, with daring, thou breakest Śambara. When against the illusionist, the resistive, thou fightest, grasping the sharp thunderbolt in thy hand of power.
त्वम् । दि॒वः । बृ॒ह॒तः । सानु॑ । को॒प॒यः॒ । अव॑ । त्मना॑ । धृ॒ष॒ता । शम्ब॑रम् । भि॒न॒त् । यत् । मा॒यिनः॑ । व्र॒न्दिनः॑ । म॒न्दिना॑ । धृ॒षत् । शि॒ताम् । गभ॑स्तिम् । अ॒शनि॑म् । पृ॒त॒न्यसि॑ ॥त्वम् । दिवः । बृहतः । सानु । कोपयः । अव । त्मना । धृषता । शम्बरम् । भिनत् । यत् । मायिनः । व्रन्दिनः । मन्दिना । धृषत् । शिताम् । गभस्तिम् । अशनिम् । पृतन्यसि ॥tvam | divaḥ | bṛhataḥ | sānu | kopayaḥ | ava | tmanā | dhṛṣatā | śambaram | bhinat | yat | māyinaḥ | vrandinaḥ | mandinā | dhṛṣat | śitām | gabhastim | aśanim | pṛtanyasi