Sukta 1.54
अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य धृषतो धृषन्मनः । बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः ॥
अर्चा॑ दि॒वे बृ॑ह॒ते शू॒ष्यं१॒॑ वच॒: स्वक्ष॑त्रं॒ यस्य॑ धृष॒तो धृ॒षन्मन॑: । बृ॒हच्छ्र॑वा॒ असु॑रो ब॒र्हणा॑ कृ॒तः पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ॥
árcā divé bṛhaté śūṣyàṃ vácaḥ svákṣatraṃ yásya dhṛṣató dhṛ́ṣan mánaḥ | bṛhác-chravā ásuro barháṇā kṛtáḥ púro háribhyāṃ vṛ́ṣabho rátho hí ṣáḥ ||
Sing the strong word to the vast Heaven: his is a self-sovereign mastery, his mind is daring and presses forward. Wide in fame, a lordly power of increase, he is made for the front—his bull-chariot is yoked with the two tawny steeds.
अर्च॑ । दि॒वे । बृ॒ह॒ते । शू॒ष्य॑म् । वचः॑ । स्वऽक्ष॑त्रम् । यस्य॑ । धृ॒ष॒तः । धृ॒षत् । मनः॑ । बृ॒हत्ऽश्र॑वाः । असु॑रः । ब॒र्हणा॑ । कृ॒तः । पु॒रः । हरि॑ऽभ्याम् । वृ॒ष॒भः । रथः॑ । हि । सः ॥अर्च । दिवे । बृहते । शूष्यम् । वचः । स्वक्षत्रम् । यस्य । धृषतः । धृषत् । मनः । बृहत्श्रवाः । असुरः । बर्हणा । कृतः । पुरः । हरिभ्याम् । वृषभः । रथः । हि । सः ॥arca | dive | bṛhate | śūṣyam | vacaḥ | sva-kṣatram | yasya | dhṛṣataḥ | dhṛṣat | manaḥ | bṛhat-śravāḥ | asuraḥ | barhaṇā | kṛtaḥ | puraḥ | hari-bhyām | vṛṣabhaḥ | rathaḥ | hi | saḥ