Sukta 1.54
अर्चा शक्राय शाकिने शचीवते शृण्वन्तमिन्द्रं महयन्नभि ष्टुहि । यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते ॥
अर्चा॑ श॒क्राय॑ शा॒किने॒ शची॑वते शृ॒ण्वन्त॒मिन्द्रं॑ म॒हय॑न्न॒भि ष्टु॑हि । यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी उ॒भे वृषा॑ वृष॒त्वा वृ॑ष॒भो न्यृ॒ञ्जते॑ ॥
árcā śakráya śākíne śácīvate śṛṇvántam índraṃ maháyann abhí stuhi | yó dhṛ́ṣṇunā śávasa ródasī ubhé vṛ́ṣā vṛṣatvā́ vṛ́ṣabho ní ṛñjate ||
Sing to the Mighty, the capable, the lord of effective power; magnifying, hymn Indra who hears. He who by daring force sets both Heaven and Earth in motion and yokes them—bull by bull-nature, the strong Bull mastering the worlds.
अर्च॑ । श॒क्राय॑ । शा॒किने॑ । शची॑ऽवते । शृ॒ण्वन्त॑म् । इन्द्र॑म् । म॒हय॑न् । अ॒भि । स्तु॒हि॒ । यः । धृ॒ष्णुना॑ । शव॑सा । रोद॑सी॒ इति॑ । उ॒भे इति॑ । वृषा॑ । वृ॒ष॒ऽत्वा । वृ॒ष॒भः । नि॒ऽऋ॒ञ्जते॑ ॥अर्च । शक्राय । शाकिने । शचीवते । शृण्वन्तम् । इन्द्रम् । महयन् । अभि । स्तुहि । यः । धृष्णुना । शवसा । रोदसी इति । उभे इति । वृषा । वृषत्वा । वृषभः । निऋञ्जते ॥arca | akrāya | śākine | śacī-vate | śṛṇvantam | indram | mahayan | abhi | stuhi | yaḥ | dhṛṣṇunā | śavasā | rodasī iti | ubhe iti | vṛṣā | vṛṣa-tvā | vṛṣabhaḥ | ni-ṛñjate