Sukta 1.54
मा नो अस्मिन्मघवन्पृत्स्वंहसि नहि ते अन्तः शवसः परीणशे । अक्रन्दयो नद्यो रोरुवद्वना कथा न क्षोणीर्भियसा समारत ॥
मा नो॑ अ॒स्मिन्म॑घवन्पृ॒त्स्वंह॑सि न॒हि ते॒ अन्त॒: शव॑सः परी॒णशे॑ । अक्र॑न्दयो न॒द्यो॒३॒॑ रोरु॑व॒द्वना॑ क॒था न क्षो॒णीર્ભि॒यसा॒ समा॑रत ॥
mā nó asmín maghavan pṛtsv áṃhasi náhi te ántaḥ śávasaḥ parīṇáśe | ákrandayo nádyo rórūvad vánā kathā́ na kṣóṇīr bhiyásā sám ārat ||
O Maghavan (Indra), do not leave us in this battle-field to the narrowness of sin and distress; for there is no end or failing in thy force. Thou hast made the rivers cry aloud, the woods roar; how then should the earth-spaces not tremble together in fear (before thy onrush)?
मा । नः॒ । अ॒स्मिन् । म॒घ॒व॒न् । पृ॒त्ऽसु । अंह॑सि । न॒हि । ते॒ । अन्तः॑ । शव॑सः । प॒रि॒ऽनशे॑ । अक्र॑न्दयः । न॒द्यः॑ । रोरु॑वत् । वना॑ । क॒था । न । क्षो॒णीः । भि॒यसा॑ । सम् । आ॒र॒त॒ ॥मा । नः । अस्मिन् । मघवन् । पृत्सु । अंहसि । नहि । ते । अन्तः । शवसः । परिनशे । अक्रन्दयः । नद्यः । रोरुवत् । वना । कथा । न । क्षोणीः । भियसा । सम् । आरत ॥mā | naḥ | asmin | maghavan | pṛt-su | aṃhasi | nahi | te | antaḥ | śavasaḥ | pari-naśe | akrandayaḥ | nadyaḥ | roruvat | vanā | kathā | na | kṣoṇīḥ | bhiyasā | sam | ārata