Sukta 1.54
स शेवृधमधि धा द्युम्नमस्मे महि क्षत्रं जनाषाळिन्द्र तव्यम् । रक्षा च नो मघोनः पाहि सूरीन्राये च नः स्वपत्या इषे धाः ॥
स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे महि॑ क्ष॒त्रं ज॑ना॒षाळि॑न्द्र॒ तव्य॑म् । रक्षा॑ च नो म॒घोन॑: पा॒हि सू॒रीन्रा॒ये च॑ नः स्वप॒त्या इ॒षे धा॑: ॥
sa śe-vṛ́dham ádhi dhā dyumnám asmē máhi kṣatráṃ janāṣā́ḷ indra távyam | rákṣā ca no maghónaḥ pā́hi sūrīn rāyé ca naḥ su-apatyā́ iṣé dhāḥ ||
Set over us the ever-increasing luminous power; establish in us, O Indra who conquers for the peoples, the vast and masterful sovereignty of the soul. Guard us, O bounteous one; protect our seers of the inner seeing; and set for us the plenitude of being—spiritual wealth and a happy continuance of the inner lineage—for the impulse of fulfilment.
सः । शेऽवृ॑धम् । अधि॑ । धाः॒ । द्यु॒म्नम् । अ॒स्मे इति॑ । महि॑ । क्ष॒त्रम् । ज॒ना॒षाट् । इ॒न्द्र॒ । तव्य॑म् । रक्ष॑ । च॒ । नः॒ । म॒घोनः॑ । पा॒हि । सू॒रीन् । रा॒ये । च॒ । नः॒ । सु॒ऽअ॒प॒त्यै । इ॒षे । धाः॒ ॥सः । शेवृधम् । अधि । धाः । द्युम्नम् । अस्मे इति । महि । क्षत्रम् । जनाषाट् । इन्द्र । तव्यम् । रक्ष । च । नः । मघोनः । पाहि । सूरीन् । राये । च । नः । सुअपत्यै । इषे । धाः ॥saḥ | śe--vṛdham | adhi | dhāḥ | dyumnam | asme iti | mahi | kṣatram | janāṣāṭ | indra | tavyam | rakṣa | ca | naḥ | maghonaḥ | pāh i | sūrīn | rāye | ca | naḥ | su-apatyai | iṣe | dhāḥ