Sukta 1.50
वि द्यामेषि रजस्पृथ्वहा मिमानो अक्तुभिः । पश्यञ्जन्मानि सूर्य ॥
वि द्यामे॑षि॒ रज॑स्पृ॒थ्वहा॒ मिमा॑नो अ॒क्तुभि॑: । पश्य॒ञ्जन्मा॑नि सूर्य ॥
ví dyā́m eṣi rájaḥ pṛthv áhá mímāno aktúbhiḥ | páśyañ jánmāni sūrya ||
Thou goest wide through heaven and the mid-regions, measuring out the days with the nights; beholding the births, O Sūrya—thou awakenest the becoming to knowledge.
वि । द्याम् । ए॒षि॒ । रजः॑ । पृ॒थु । अहा॑ । मिमा॑नः । अ॒क्तुऽभिः॑ । पश्य॑न् । जन्मा॑नि । सू॒र्य॒ ॥वि । द्याम् । एषि । रजः । पृथु । अहा । मिमानः । अक्तुभिः । पश्यन् । जन्मानि । सूर्य ॥vi | dyām | eṣi | rajaḥ | pṛthu | ahā | mimānaḥ | aktu-bhiḥ | paśyan | janmāni | sūyar