Sukta 1.50
येना पावक चक्षसा भुरण्यन्तं जनाँ अनु । त्वं वरुण पश्यसि ॥
येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ । त्वं व॑रुण॒ पश्य॑सि ॥
yénā pā́vaka cákṣasā bhuráṇyantaṃ jánāṃ ánu | tváṃ varuṇa páśyasi ||
By that pure, clarifying eye with which thou followest the moving multitudes, thou, O Varuṇa, beholdest—seeing through all concealment.
येन॑ । पा॒व॒क॒ । चक्ष॑सा । भु॒र॒ण्यन्त॑म् । जना॑न् । अनु॑ । त्वम् । व॒रु॒ण॒ । पश्य॑सि ॥येन । पावक । चक्षसा । भुरण्यन्तम् । जनान् । अनु । त्वम् । वरुण । पश्यसि ॥yena | pāvaka | cakṣasā | bhuraṇyantam | janān | anu | tvam | varuṇa | paśyasi