Sukta 1.50
अदृश्रमस्य केतवो वि रश्मयो जनाँ अनु । भ्राजन्तो अग्नयो यथा ॥
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑ । भ्राज॑न्तो अ॒ग्नयो॑ यथा ॥
ádṛśram asya ketávo ví raśmáyo jánāṃ ánu | bhrā́janto agnáyo yáthā ||
His lights have become visible; his rays spread out following the peoples, blazing like fires—so the solar truth-force enters all movements of human life.
अदृ॑श्रम् । अ॒स्य॒ । के॒तवः॑ । वि । र॒श्मयः॑ । जना॑न् । अनु॑ । भ्राज॑न्तः । अ॒ग्नयः॑ । य॒था॒ ॥अदृश्रम् । अस्य । केतवः । वि । रश्मयः । जनान् । अनु । भ्राजन्तः । अग्नयः । यथा ॥adṛśram | asya | ketavaḥ | vi | raśmayaḥ | janān | anu | bhrājantaḥ | agnayaḥ | yathā