Sukta 1.50
अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः । सूराय विश्वचक्षसे ॥
अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभि॑: । सूरा॑य वि॒श्वच॑क्षसे ॥
ápa tyé tā́yavo yáthā nákṣatrā yanty aktúbhiḥ | sūrā́ya viśvá-cakṣase ||
Away flee the dark robbers, as the stars depart with the nights, before the Sun who is the all-seeing eye; so ignorance withdraws when the truth-light arrives.
अप॑ । त्ये । ता॒यवः॑ । य॒था॒ । नक्ष॑त्रा । य॒न्ति॒ । अ॒क्तुऽभिः॑ । सूरा॑य । वि॒श्वऽच॑क्षसे ॥अप । त्ये । तायवः । यथा । नक्षत्रा । यन्ति । अक्तुभिः । सूराय । विश्वचक्षसे ॥apa | tye | tāyavaḥ | yathā | nakṣatrā | yanti | aktu-bhiḥ | sūrāya | viśva-cakṣase