Sukta 1.50
उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्य हरिमाणं च नाशय ॥
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव॑म् । हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं॑ च नाशय ॥
udyánn adyá mitra-maha āróhann úttarāṃ dívam | hṛdrógaṃ máma sūrya harimā́ṇaṃ ca nāśaya ||
Rising today, O mighty friend, climbing to the higher heaven—O Sūrya, destroy my heart’s affliction and the yellowing shadow that clings to the life.
उ॒त्ऽयन् । अ॒द्य । मि॒त्र॒ऽम॒हः॒ । आ॒ऽरोह॑न् । उत्ऽत॑राम् । दिव॑म् । हृ॒त्ऽरो॒गम् । मम॑ । सू॒र्य॒ । ह॒रि॒माण॑म् । च॒ । ना॒श॒य॒ ॥उत्यन् । अद्य । मित्रमहः । आरोहन् । उत्तराम् । दिवम् । हृत्रोगम् । मम । सूर्य । हरिमाणम् । च । नाशय ॥ut-yan | adya | mitra-mahaḥ | ārohan | ut-tarām | divam | hṛt-rogam | mama | sūrya | harimāṇam | ca | nāśaya