Sukta 1.50
उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥
उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य॑न्त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥
úd vayáṃ támásaḥ pári jyótiḥ páśyanta uttáram | deváṃ devatrā́ sū́ryam áganma jyótir uttamám ||
Up we have risen beyond the darkness, seeing the higher Light; to the God, to the realm of the gods, to Sūrya we have come—toward the supreme Illumination.
उत् । व॒यम् । तम॑सः । परि॑ । ज्योतिः॑ । पश्य॑न्तः । उत्ऽत॑रम् । दे॒वम् । दे॒व॒ऽत्रा । सूर्य॑म् । अग॑न्म । ज्योतिः॑ । उ॒त्ऽत॒मम् ॥उत् । वयम् । तमसः । परि । ज्योतिः । पश्यन्तः । उत्तरम् । देवम् । देवत्रा । सूर्यम् । अगन्म । ज्योतिः । उत्तमम् ॥ut | vayam | tamasaḥ | pari | jyotiḥ | paśyantaḥ | ut-taram | devam | deva-trā | sūryam | aganma | jyotiḥ | ut-tamam