Sukta 1.5
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये । सोमासो दध्याशिरः ॥
सु॒त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये॑ । सोमा॑सो॒ दध्या॑शिरः ॥
sutapā́vne sutā́ imé śúcayo yanti vītáye | sómāso dádhyāśiraḥ ||
O Purifier of the pressed delight, these pressed Soma-forces, bright and clear, move forward for thy accepting enjoyment; the Soma-streams come mixed with curd as a nourishing essence for the inner offering.
सु॒त॒ऽपाव्ने॑ । सु॒ताः । इ॒मे । शुच॑यः । य॒न्ति॒ । वी॒तये॑ । सोमा॑सः । दधि॑ऽआशिरः ॥सुतपाव्ने । सुताः । इमे । शुचयः । यन्ति । वीतये । सोमासः । दधिआशिरः ॥suta-pāvne | sutāḥ | ime | śucayaḥ | yanti | vītaye | somāsaḥ | dadhi-āśiraḥ