Sukta 1.47
अर्वाञ्चा वां सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप । इषं पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा ॥
अ॒र्वाञ्चा॑ वां॒ सप्त॑योऽध्वर॒श्रियो॒ वह॑न्तु॒ सव॒नेदुप॑ । इषं॑ पृ॒ञ्चन्ता॑ सु॒कृते॑ सु॒दान॑व॒ आ ब॒र्हिः सी॑दतं नरा ॥
arvā́ñcā vām saptáyo ’dhvara-śríyo váhantu savanéd úpa | íṣaṃ pṛñcántā su-kṛ́te su-dā́nava ā́ barhíḥ sīdatam narā ||
Let your seven-yoked (powers), radiant with the glory of the sacrifice, bring you hither to the Soma-pressing. Pouring out the flow of impulsion and increase for the doer of the good work, for the generous giver—sit down upon the sacred seat, O two heroic ones.
अ॒र्वाञ्चा॑ । वा॒म् । सप्त॑यः । अ॒ध्व॒र॒ऽश्रियः॑ । वह॑न्तु । सव॑ ना । इत् । उप॑ । इष॑म् । पृ॒ञ्चन्ता॑ । सु॒ऽकृते॑ । सु॒ऽदान॑वे । आ । ब॒र्हिः । सि॒द॒त॒म् । न॒रा॒ ॥अर्वाञ्चा । वाम् । सप्तयः । अध्वरश्रियः । वहन्तु । सव ना । इत् । उप । इषम् । पृञ्चन्ता । सुकृते । सुदानवे । आ । बर्हिः । सिदतम् । नरा ॥arvāñcā | vām | saptayaḥ | adhvara-śriyaḥ | vahantu | savanā | it | upa | iṣam | pṛñcantā | su-kṛte | su-dānave | ā | barhiḥ | sidatam | narā