Sukta 1.47
यन्नासत्या परावति यद्वा स्थो अधि तुर्वशे । अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः ॥
यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अधि॑ तु॒र्वशे॑ । अतो॒ रथे॑न सु॒वृता॑ न॒ आ ग॑तं सा॒कं सूर्य॑स्य र॒श्मिभि॑: ॥
yán nāsatyā parāváti yád vā sthó ádhi turváśe | atáḥ ráthena su-vṛ́tā na ā́ gataṃ sākáṃ sū́ryasya raśmí-bhiḥ ||
Whether, O Nāsatyas, you are in the far distance or stationed above Turvaśa, from there come to us with your well-turning chariot, together with the rays of the Sun—bringing the luminous rightness into our path.
यत् । ना॒स॒त्या॒ । प॒रा॒ऽवति॑ । यत् । वा॒ । स्थः । अधि॑ । तु॒र्वशे॑ । अतः॑ । रथे॑न । सु॒ऽवृता॑ । नः॒ । आ । ग॒त॒म् । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ॥यत् । नासत्या । परावति । यत् । वा । स्थः । अधि । तुर्वशे । अतः । रथेन । सुवृता । नः । आ । गतम् । साकम् । सूर्यस्य । रश्मिभिः ॥yat | nāsatyā | parāvati | yat | vā | sthaḥ | adhi | turvaśe | ataḥ | rathena | su-vṛtā | naḥ | ā | gatam | sākam | sūryasya | raśmi-bhiḥ