Sukta 1.47
सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतमश्विना । रयिं समुद्रादुत वा दिवस्पर्यस्मे धत्तं पुरुस्पृहम् ॥
सु॒दासे॑ दस्रा॒ वसु॒ बिभ्र॑ता॒ रथे॒ पृक्षो॑ वहतमश्विना । र॒यिं स॑मु॒द्रादु॒त वा॑ दि॒वस्पर्य॒स्मे ध॑त्तं पुरु॒स्पृह॑म् ॥
sudā́se dasrā vásu bíbhratā ráthe pṛ́kṣo vahatam aśvinā | rayíṃ samudrā́d utá vā divás pári asmḗ dhattaṃ puru-spṛ́ham ||
O skillful Aśvins, bearing treasure on your chariot, drive hither with your strong steeds; place for us the rayi—whether from the ocean-depths or from the wide heaven above—richly desirable, a plenitude that the soul longs for.
सु॒ऽदासे॑ । द॒स्रा॒ । वसु॑ । बिभ्र॑ता । रथे॑ । पृक्षः॑ । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । र॒यिम् । स॒मु॒द्रात् । उ॒त । वा॒ । दि॒वः । परि॑ । अ॒स्मे इति॑ । ध॒त्त॒म् । पु॒रु॒ऽस्पृह॑म् ॥सुदासे । दस्रा । वसु । बिभ्रता । रथे । पृक्षः । वहतम् । अश्विना । रयिम् । समुद्रात् । उत । वा । दिवः । परि । अस्मे इति । धत्तम् । पुरुस्पृहम् ॥su-dāse | dasrā | vasu | bibhratā | rathe | pṛkṣaḥ | vahatam | aśvinā | rayim | samudrāt | uta | vā | divaḥ | pari | asme iti | dhattam | puru-spṛham