Sukta 1.47
याभिः कण्वमभिष्टिभिः प्रावतं युवमश्विना । ताभिः ष्वस्माँ अवतं शुभस्पती पातं सोममृतावृधा ॥
याभि॒: कण्व॑म॒भिष्टि॑भि॒: प्राव॑तं यु॒वम॑श्विना । ताभि॒: ष्व१॒॑स्माँ अ॑वतं शुभस्पती पा॒तं सोम॑मृतावृधा ॥
yā́bhiḥ kaṇváṃ abhiṣṭí-bhiḥ prá ā́vatam yuvám aśvinā | tā́bhiḥ sú asmā́n avatam śúbhaḥ patī pātáṃ sómam ṛtā-vṛdhā ||
With those powers of ready help by which you, O Aśvins, brought Kanva forward into safety, by those very powers protect us well, O lords of luminous felicity; and drink the Soma, you who increase the growth of the Truth (ṛta).
याभिः॑ । कण्व॑म् । अ॒भिष्टि॑ऽभिः । प्र । आव॑तम् । यु॒वम् । अ॒श्वि॒ना॒ । ताभिः॑ । सु । अ॒स्मान् । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥याभिः । कण्वम् । अभिष्टिभिः । प्र । आवतम् । युवम् । अश्विना । ताभिः । सु । अस्मान् । अवतम् । शुभः । पती इति । पातम् । सोमम् । ऋतवृधा ॥yābhiḥ | kaṇvam | abhiṣṭi-bhiḥ | pra | āvatam | yuvam | aśvinā | tābhiḥ | su | asmān | avatam | śubhaḥ | patī iti | pātam | somam | ṛta-vṛdhā