Sukta 1.47
अश्विना मधुमत्तमं पातं सोममृतावृधा । अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गच्छतम् ॥
अश्वि॑ना॒ मधु॑मत्तमं पा॒तं सोम॑मृतावृधा । अथा॒द्य द॑स्रा॒ वसु॒ बिभ्र॑ता॒ रथे॑ दा॒श्वांस॒मुप॑ गच्छतम् ॥
aśvinā mádhumattamaṃ pā́taṃ sómam ṛtāvṛdhā | áthā́dya dasrā́ vásu bíbhratā ráthe dāśvā́ṃsam úpa gacchatam ||
O Aśvins, drink the most honeyed Soma, O increasers of Ṛta; and now, O wonder-workers, bearing the good riches in your chariot, come near to the giver who offers.
अश्वि॑ना । मधु॑मत्ऽतमम् । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ । अथ॑ । अ॒द्य । द॒स्रा॒ । वसु॑ । बिभ्र॑ता । रथे॑ । दा॒स्वांस॑म् । उप॑ । ग॒च्छ॒त॒म् ॥अश्विना । मधुमत्तमम् । पातम् । सोमम् । ऋतवृधा । अथ । अद्य । दस्रा । वसु । बिभ्रता । रथे । दास्वांसम् । उप । गच्छतम् ॥aśvinā | madhumat-tamam | pātam | somam | ṛta-vṛdhā | atha | adya | dasrā | vasu | bibhratā | rathe | dāsvāṃsam | upa | gacchatam